वक्ष्यमाणे वाक्ये सर्वकर्मसंन्यासो न प्रतिभाति, मानसानामेव कर्मणां विशेषणवशात् त्यागावगमात् इति शङ्कते -
नन्विति ।
विशेषणान्तरमाश्रित्य दूषयति -
न ; सर्वेति ।
मनसेति विशेषणात् मानसेष्वेव कर्मसु सर्वशब्दः सङ्कुचितः स्यात् इति शङ्कते -
मानसानामिति ।
सर्वात्मना मनोव्यापारत्यागे व्यापारान्तराणामनुपपत्तेः सर्वकर्मसंन्यासः सिध्यतीति परिहरति -
नेत्यादिना ।
मानसेष्वपि कर्मसु संन्यासे सङ्कोचात् न वागादिव्यापारानुपपत्तिरिति शङ्कते -
शास्त्रीयाणामिति ।
अन्यानीति ।
अशास्त्रीयवाक्कायकर्मकारणानि अशास्त्रीयाणि मानसानि । तानि च सर्वाणि कर्माणीत्यर्थः ।
वाक्यशेषमादाय दूषयति -
न ; नैवेति ।
न हि विवेकबुद्ध्या सर्वाणि कर्माण्यशास्त्रीयाणि संन्यस्य तिष्ठतीति युक्तम् , ‘नैव कुर्वन्’ (भ. गी. ५-१३) इत्यादिविशेषणस्य विवेकबुद्धेश्च त्यागहेतोस्तुल्यत्वादित्यर्थः ।
भगवदभिमतसर्वकर्मसंन्यासस्य अवस्थाविेशेषे सङ्कोचं दर्शयन्नाशङ्कते -
मरिष्यत इति ।
संन्यासो जीवदवस्थायामेव अत्र विवक्षित इत्यत्र लिङ्गं दर्शयन्नुत्तरमाह -
न ; नवेति ।
अनुपपत्तिमेव स्फोरयति -
न हीति ।
अन्वयविशेषान्वाख्यानेन लिङ्गासिद्धिं चोदयति -
अकुर्वत इति ।
विवेकवशात् अशेषाण्यपि कर्माणि देहे यथोक्ते निक्षिप्य अकुर्वन् अकारयंश्च विद्वानवतिष्ठते । तथा च - देहे कर्माणि संन्यस्य अकुर्वतोऽकारयतश्च सुखमासनमिति सम्बन्धसम्भवात् विशेषणस्य सति देहे, कर्मत्यागाविषयत्वाभावात् जीवतः सर्वकर्मत्यागो नास्तीत्यर्थः । अथवा अकुर्वत इत्यादि पूर्वत्रैव सम्बन्धनीयम् । लिङ्गासिद्धिचोद्यं तु देहे संन्यस्येत्यारभ्य उन्नेयम् ।
आत्मनः सर्वत्र अविक्रियत्वनिर्धारणात् देहसम्बन्धमन्तरेण कर्तृत्वकारयितृत्वाप्राप्तेः अप्राप्तप्रतिषेधप्रसङ्गपरिहारार्थम् अस्मदुक्त एव सम्बन्धः साधीयानिति समाधत्ते -
न ; सर्वत्रेति ।
श्रुतिषु स्मृतिषु चेत्यर्थः ।
किञ्च - सम्बन्धस्य आकाङ्क्षासंनिधियोग्यताधीनत्वात् आकाङ्क्षावशात् अस्मदभिमतसम्बन्धसिद्धिरित्याह -
आसनेति ।
भवदिष्टस्तु सम्बन्धो न सिध्यति, आकाङ्क्षाभावात् , इत्याह -
तदनपेक्षत्वाच्चेति ।
संन्यासशब्दस्य निक्षेपार्थत्वात् तस्य च अघिकरणसापेक्षत्वात् अस्मदिष्टसम्बन्धसिद्धिरित्याशङ्क्याह -
सम्पूर्वस्त्विति ।
अन्यथा उपसर्गवैयर्थ्यात् इत्यर्थः ।
मनसा विवेकविज्ञानेन सर्वकर्माणि परित्यज्य आस्ते देहे विद्वान् इत्यस्यैव सम्बन्धस्य साधुत्वं मत्वोपसंहरति -
तस्मादिति ।
सर्वव्यापारोपरमात्मनः संन्यासस्य अविक्रियात्मज्ञानाविरोधित्वात् प्रयोजकज्ञानवतो वैधे संन्यासेऽधिकारः, सम्यग्ज्ञानवतस्तु अवैधे स्वाभाविके फलात्मनि इति विभागमभ्युपेत्य उक्तेऽर्थे वाक्यशेषानुगुण्यं दर्शयति -
इति तत्र तत्रेति
॥ २१ ॥