श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २६ ॥
अथ इति अभ्युपगमार्थःएनं प्रकृतमात्मानं नित्यजातं लोकप्रसिद्ध्या प्रत्यनेकशरीरोत्पत्ति जातो जात इति मन्यसे तथा प्रतितत्तद्विनाशं नित्यं वा मन्यसे मृतं मृतो मृत इति ; तथापि तथाभावेऽपि आत्मनि त्वं महाबाहो, एवं शोचितुमर्हसि, जन्मवतो जन्म नाशवतो नाशश्चेत्येताववश्यम्भाविनाविति ॥ २६ ॥

श्रोतुरर्जुनस्य पूर्वोक्तमात्मयाथात्म्यं श्रुत्वापि तस्मिन् निर्धारणासिद्धेर्द्वयोर्मतयोरन्यतरमताभ्युपगमः शङ्कितः, तदर्थो निपातद्वयप्रयोग इत्याह -

अथ चेति ।

प्रकृतस्य आत्मनो नित्यत्वादिलक्षणस्य पुनःपुनर्जातत्वाभिमानो मानाभावादसम्भवी इत्याशङ्क्याह -

लोकेति ।

नित्यजातत्वाभिनिवेशे पौनःपुन्येन मृतत्वाभिनेवेशो व्याहतः स्यादित्यशङ्क्याह -

तथेति ।

परकीयमतमनुभाषितमभ्युपेत्य, ‘अहो बत महत् पापं कर्तुं व्यवसिता वयम्’ (भ. गी. १. ४५) इत्यादेस्तदीयशोकस्य  निरवकाशत्वमित्याह -

तथापीति ।

एवमर्जुनस्य दृश्यमानमनुशोकप्रकारं दर्शयित्वा तस्य कर्तुमयोग्यत्वे हेतुमाह -

जन्मवत इति ।

‘जन्मवतो नाशो नाशवतश्च जन्म’ इत्येतौ अवश्यंभाविनौ - मिथो व्याप्ताविति योजना ॥ २६ ॥