आत्मनो नित्यत्वस्य प्रागेव सिद्धत्वात् उत्तरश्लोकानुपपत्तिरित्याशङ्क्यह -
आत्मन इति ।
‘अनित्यत्वं’ इति च्छेदः । शाक्यानां लोकायतानां वा मतम् इदमा परामृश्यते ।