चाक्षुषदर्शनमात्रवृत्तिं व्यावर्तयति -
अनुपलब्धिरिति ।
नहि यथोक्तसङ्घातरूपाणि भूतानि पूर्वमुत्पत्तेः उपलभ्यन्ते । तेन तानि तथा व्यपदेशभाञ्जि भवन्ति इत्यर्थः ।
किं तत् मध्यम् , यदेषां व्यक्तमिष्यते ? तदाह -
उत्पन्नानीति ।
उत्पत्तेरूर्ध्वं मरणाच्च पूर्वं व्यावहारिकं सत्त्वं मध्यमेषां व्यक्तमिति तथोच्यते ।
जन्मानुसारित्वं विलयस्य युक्तम् इति मत्वा तात्पर्यार्थमाह -
मरणादिति ।
उक्तेऽर्थे पौराणिकसंमतिमाह -
तथा चेति ।
तत्रेत्यस्यार्थमाह -
अदृष्टेति ।
पूर्वम् अदृष्टानि सन्ति, पुनर्दृष्टानि, तान्येव पुनर्नष्टानि, तदेवं भ्रान्तिविषयतया घटिकायन्त्रवत् चक्रीभूतेषु भूतेषु शोकनिमितस्य प्रलापस्य नावकाशोऽस्तीत्यर्थः ॥ २८ ॥