श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद चैव कश्चित् ॥ २९ ॥
आश्चर्यवत् आश्चर्यम् अदृष्टपूर्वम् अद्भुतम् अकस्माद्दृश्यमानं तेन तुल्यं आश्चर्यवत् आश्चर्यमिति एनम् आत्मानं पश्यति कश्चित्आश्चर्यवत् एनं वदति तथैव अन्यःआश्चर्यवच्च एनमन्यः शृणोतिश्रुत्वा दृष्ट्वा उक्त्वापि एनमात्मानं वेद चैव कश्चित्अथवा योऽयमात्मानं पश्यति आश्चर्यतुल्यः, यो वदति यश्च शृणोति सः अनेकसहस्रेषु कश्चिदेव भवतिअतो दुर्बोध आत्मा इत्यभिप्रायः ॥ २९ ॥

‘आश्चर्यवत्’ (भ. गी. २-२९) इति आद्येन पादेन आत्मविषयदर्शनस्य दुर्लभत्वं दर्शयता द्रष्टुर्दौर्लभ्यमुच्यते । द्वितीयेन च तद्विषयवदनस्य दुर्लभत्वोक्तेः तदुपदेष्टुस्तथात्वं कथ्यते । तृतीयेन तदीयश्रवणस्य दुर्लभत्वद्वारा श्रोतुर्विरलता विवक्षिता । श्रवणदर्शनोक्तीनां भावेऽपि तद्विषयसाक्षात्कारस्य अत्यन्तायासलभ्यत्वं चतुर्थेनाभिप्रेतम् इति विभागः । आत्मगोचरदर्शनादिदुर्लभत्वद्वारा दुर्बोधत्वम् आत्मनः साधयति -

आश्चर्यवदिति ।

संप्रत्यात्मनि द्रष्टुर्वक्तुः श्रोतुः साक्षात्कर्तुश्च दुर्लभत्वाभिधानेन तदीयं दुर्बोधत्वं कथयति -

अथवेति ।

व्याख्यानद्वयेऽपि फलितमाह -

अत इति

॥ २९ ॥