यद्धि क्षत्रियस्य धर्मादनपेतं श्रेयःसाधनं तदेव मया अनुवर्तितव्यमित्याशङ्क्याह -
धर्म्यादिति ।
जातिप्रयुक्तं स्वाभाविकं स्वधर्ममेव विशिनष्टि -
क्षत्रियस्येति ।
पुनर्नकारोपादानमन्वयार्थम् ।
प्रचलितुमयोग्यत्वे प्रतियोगिनं दर्शयति -
स्वाभाविकादिति ।
स्वाभाविकत्वमशास्रीयत्वमिति शङ्कां वारयितुं तात्पर्यमाह-
आत्मेति ।
आत्मनः - स्वस्यार्जुनस्य स्वाभाव्यं क्षत्रियस्वभावप्रयुक्तं वर्णाश्रमोचितं कर्म, तस्मादित्यर्थः ।
धर्मार्थं प्रजापरिपालनार्थं च प्रयतमानस्य युद्धादुपरिरंसा श्रद्धातव्येत्याशङ्क्याह-
तच्चेति ।
ततोऽपि श्रेयस्करं किञ्चिदनुष्ठातुं युद्धादुपरतिरुचितेत्याशङ्क्याह -
तस्मादिति ।
तस्मात् युद्धात् प्रचलनमनुचितमिति शेषः ॥ ३१ ॥