श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
स्वधर्ममपि चावेक्ष्य विकम्पितुमर्हसि
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्त्रियस्य विद्यते ॥ ३१ ॥
स्वधर्ममपि स्वो धर्मः क्षत्रियस्य युद्धं तमपि अवेक्ष्य त्वं विकम्पितुं प्रचलितुम् नार्हसि क्षत्रियस्य स्वाभाविकाद्धर्मात् आत्मस्वाभाव्यादित्यभिप्रायःतच्च युद्धं पृथिवीजयद्वारेण धर्मार्थं प्रजारक्षणार्थं चेति धर्मादनपेतं परं धर्म्यम्तस्मात् धर्म्यात् युद्धात् श्रेयः अन्यत् क्षत्रियस्य विद्यते हि यस्मात् ॥ ३१ ॥

यद्धि क्षत्रियस्य धर्मादनपेतं श्रेयःसाधनं तदेव मया अनुवर्तितव्यमित्याशङ्क्याह -

धर्म्यादिति ।

जातिप्रयुक्तं स्वाभाविकं स्वधर्ममेव विशिनष्टि -

क्षत्रियस्येति ।

पुनर्नकारोपादानमन्वयार्थम् ।

प्रचलितुमयोग्यत्वे प्रतियोगिनं दर्शयति -

स्वाभाविकादिति ।

स्वाभाविकत्वमशास्रीयत्वमिति शङ्कां वारयितुं तात्पर्यमाह-

आत्मेति ।

आत्मनः - स्वस्यार्जुनस्य स्वाभाव्यं क्षत्रियस्वभावप्रयुक्तं वर्णाश्रमोचितं कर्म, तस्मादित्यर्थः ।

धर्मार्थं प्रजापरिपालनार्थं च प्रयतमानस्य युद्धादुपरिरंसा श्रद्धातव्येत्याशङ्क्याह-

तच्चेति ।

ततोऽपि श्रेयस्करं किञ्चिदनुष्ठातुं युद्धादुपरतिरुचितेत्याशङ्क्याह -

तस्मादिति ।

तस्मात् युद्धात् प्रचलनमनुचितमिति शेषः ॥ ३१ ॥