स्वधर्मस्य युद्धस्य श्रद्धया करणे स्वर्गादिमहाफलप्राप्तिं प्रदर्श्य, तदकरणे प्रत्यवायप्राप्तिं प्रदर्शयन् उत्तरश्लोकगताथशब्दार्थं कथयति -
एवमिति ।
विहितत्वं फलवत्त्वमित्यनेन प्रकारेणेत्यर्थः । अन्वयार्थः पुनः चेदित्यनूद्यते । महादेवादीत्यादिशब्देन महेन्द्रादयो गृह्यन्ते ॥ ३३ ॥