श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः
येषां त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥
भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं निवृत्तं मंस्यन्ते चिन्तयिष्यन्ति कृपयेति त्वां महारथाः दुर्योधनप्रभृतयःयेषां त्वं दुर्योधनादीनां बहुमतो बहुभिः गुणैः युक्तः इत्येवं मतः बहुमतः भूत्वा पुनः यास्यसि लाघवं लघुभावम् ॥ ३५ ॥

प्राणिषु कृपया नाहं युद्धं करिष्यामीत्याशङ्क्याह -

भयादिति ।

महारथानेव विशिनष्टि -

येषां चेति ।

दुर्योधनादिभिस्तव उपहास्यतानिरसनाय सङ्ग्रामे प्रवृत्तिरवश्यम्भाविनीत्यर्थः ॥ ३५ ॥