परमार्थतत्त्वविषयां ज्ञाननिष्ठामुक्तामुपसंहृत्य वक्ष्यमाणां सङ्गृह्णाति -
योगे त्विति ।
तामेव बुद्धिं विशिष्टफलवत्त्वेनाभिष्टौति -
बुद्ध्येति ।
तत्रोपसंहारभागं विभजते-
एषेत्यादिना ।
बु्द्धिशब्दस्यान्तःकरणविषयत्वं व्यावर्तयति -
ज्ञानमिति ।
तस्य सहकारिनिरपेक्षस्य विशिष्टं फलवत्त्वमाचष्टे -
साक्षादिति ।
शोकमोहौ रागद्वेषौ कर्तृत्वं भोक्तृत्वमित्यादिरनर्थः संसारः, तस्य हेतुर्दोषः स्वाज्ञानम् , तस्य निवृत्तौ निरपेक्षं कारणं ज्ञानम् । अज्ञाननिवृत्तौ ज्ञानस्यान्वयव्यतिरेकसमधिगतसाधनत्वादित्यर्थः ।
‘योगे त्विमां’ (भ. गी. २-३९) इत्यादि व्याकुर्वन् योगशब्दस्य प्रकृते चित्तवृत्तिनिरोधविषयत्वं व्यवच्छिनत्ति -
तत्प्राप्तीति ।
प्रकृतं मुक्त्युपयुक्तं ज्ञानं तत्पदेन परामृश्यते ।
ज्ञानोदयोपायमेव प्रकटयति -
निःसङ्गतयेति ।
फलाभिसन्धिवैधुर्यं निःसङ्गत्वम् ।
बुद्धिस्तुतिप्रयोजनमाह -
प्ररोचनार्थमिति ।
अभिष्टुता हि बुद्धिः श्रद्धातव्या सत्यनुष्ठातारमधिकरोति । तेन स्तुतिरर्थवतीत्यर्थः ।
कर्मानुष्ठानविषयबुद्ध्या कर्मबन्धस्य कुतो निवृत्तिः ? नहि तत्त्वज्ञानमन्तरेण समूलं कर्म हातुं शक्यमित्याशङ्क्यह -
ईश्वरेति
॥ ३९ ॥