ननु - ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २-३१ ) इत्यादिश्लोकैर्न्यायावष्टम्भेन शोकमोहापनयनस्य तात्पर्येणोक्तत्वात् तस्मिन्नुपसंहर्तव्ये किमिति परमार्थदर्शनमुपसंह्नियते ? तत्राह -
शोकेति ।
‘स्वधर्ममपि’ (भ. गी. २-३१) इत्यादिभिरतीतैः श्लोकैः शोकमोहयोः स्वजनमरणगुर्वादिवधशङ्कानिमित्तयोः सम्यग्ज्ञानप्रतिबन्धकयोरपनयार्थं वर्णाश्रमकृतं धर्ममनुतिष्ठतः स्वर्गादि सिध्यति, नान्यथा, इत्यन्वयव्यतिरेकात्मको लोकप्रसिद्धो न्यायो यद्यपि दर्शितः, तथापि नासौ तात्पर्येणोक्त इत्यर्थः ।
किं तर्हि तात्पर्येणोक्तम् ? तदाह -
परमार्थेति ।
‘न त्वेवाहं जातु नासं’ (भ. गी. २-१२) इत्यादि सप्तम्या परामृश्यते । उक्तम् - ‘न जायते म्रियते वा कदाचित्’ (भ. गी. २. २०) इत्यादिनोपपादितमित्यर्थः ।
उपसंहारप्रयोजनमाह -
शास्त्रेति ।
तस्य वस्तुद्वारा विषयो निष्ठाद्वयम् । तस्य विभक्तस्य तेनैव विभागेन प्रदर्शनार्थं परमार्थदर्शनोपसंहार इत्यर्थः ।
ननु - किमित्यत्र शास्त्रस्य विषयविभागः प्रदर्श्यते ? उत्तरत्रैव तद्विभागप्रवृत्तिप्रतिपत्त्योः सम्भवात् इति, तत्राह -
इह हीति ।
शास्त्रप्रवृत्तेः श्रोतृपतिपत्तेश्च सौकर्यार्थमादौ विषयविभागसूचनमित्यर्थः ।
उपसंहारस्य फलवत्त्वमेवमुक्त्वा तमेवोपसंहारमवतारयति -
अत आहेति ।