कर्मणा सह समाधेरनुष्ठातुमशक्यत्वात् , अनेकान्तरायसम्भवात् , तत्फलस्य च साक्षात्कारस्य दीर्घकालाभ्याससाध्यस्यैकस्मिन् जन्मन्यसम्भावत् अर्थात् योगी भ्रश्येत, अनर्थे च निपतेत् , इत्याशङ्क्याह -
नेहेति ।
प्रतीकत्वेनोपात्तस्य नकारस्य पुनरन्वयानुगुणत्वेन नास्तीत्यनुवादः ।
यत्तु - कर्मानुष्ठानस्य अनैकान्तिकफलत्वेन अकिञ्चित्करत्वमुक्तं तद्दूषयति -
यथेति ।
कृषिवाणिज्यादेरारम्भस्य अनियतं फलम् , सम्भावनामात्रोपनीतत्वात् , न तथा कर्मणि वैदिके प्रारम्भस्य फलमनियतं युज्यते, शास्त्रविरोधादित्यर्थः ।
यत्तूक्तम् - अनेकानर्थकलुषितत्वेन दोषवदनुष्ठानमिति, तत्राह -
किञ्चेति ।
इतोऽपि कर्मानुष्ठानमावश्यकमिति प्रतिज्ञाय हेत्वन्तरमपि स्फुटयति -
नापीति ।
चिकित्सायां हि क्रियमाणायां व्याध्यतिरेको वा मरणं वा प्रत्यवायोऽपि सम्भाव्यते, कर्मपरिपाकस्य दुर्विवेकत्वात् । न तथा कर्मानुष्ठाने दोषोऽस्ति, विहितत्वादित्यर्थः ।
सम्प्रति कर्मानुष्ठानस्य फलं पृच्छति -
किं न्विति ।
उत्तरार्धं व्याकुर्वन् विवक्षितं फलं कथयति -
स्वल्पमपीति ।
सम्यग्ज्ञानोत्पादनद्वारेण रक्षणं विवक्षितम् - ‘सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । यतिस्तपस्वी भवति पङ्क्तिपावनपावनः ॥ ‘ इति स्मृतेरित्यर्थः ॥ ४० ॥