श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥
व्यवसायात्मिका निश्चयस्वभावा एका एव बुद्धिः इतरविपरीतबुद्धिशाखाभेदस्य बाधिका, सम्यक्प्रमाणजनितत्वात् , इह श्रेयोमार्गे हे कुरुनन्दनयाः पुनः इतरा विपरीतबुद्धयः, यासां शाखाभेदप्रचारवशात् अनन्तः अपारः अनुपरतः संसारो नित्यप्रततो विस्तीर्णो भवति, प्रमाणजनितविवेकबुद्धिनिमित्तवशाच्च उपरतास्वनन्तभेदबुद्धिषु संसारोऽप्युपरमते ता बुद्धयः बहुशाखाः बह्वयः शाखाः यासां ताः बहुशाखाः, बहुभेदा इत्येतत्प्रतिशाखाभेदेन हि अनन्ताश्च बुद्धयःकेषाम् ? अव्यवसायिनां प्रमाणजनितविवेकबुद्धिरहितानामित्यर्थः ॥ ४१ ॥

सैवैका प्रमाणभूता बुद्धिरित्याह -

व्यवसायात्मिकेति ।

बुद्ध्यन्तराणि अविवेकमूलानि, अप्रमाणानि, इत्याह -

बहुशाखा हीति ।

व्यवसायात्मिकाया बुद्धेः श्रेयोमार्गे प्रवृत्ताया विवक्षित फलमाह -

इतरेति ।

प्रकृतबुद्धिद्वयापेक्षया इतराः विपरीताश्च अप्रमाणजनिताः स्वकपोलकल्पिता या बुद्धयः, तासां शाखाभेदो यः संसारहेतुः, तस्य बाधिकेति यावत् ।

तत्र हेतुः -

सम्यगिति ।

निर्दोषवेदवाक्यसमुत्थत्वात् उक्तमुपायोपेयभूतं बुद्धिद्वयं साक्षात् पारम्पर्याभ्यां संसारहेतुबाधकमित्यर्थः ।

उत्तरार्धं व्याचष्टे  -

याः पुनरिति ।

प्रकृतबुद्धिद्वयापेक्षया अर्थान्तरत्वम् - इतरत्वम् ।

तासामनर्थहेतुत्वं दर्शयति -

यासामिति ।

अप्रामाणिकबुद्धीनां प्रसक्तानुप्रसक्त्या जायमानानामतीव बुद्धिपरिणामविशेषाः शाखाभेदाः, तेषां प्रचारः - प्रवृत्तिः, तद्वशादित्येतत् । अनन्तत्वं सम्यग्ज्ञानमन्तरेण निवृत्तिविरहितत्वम् । अपारत्वं - कार्यस्यैव सतो वस्तुभूतकारणविरहितत्वम् ।

अनुपरतत्वं स्फोरयति -

नित्येति ।

कथं तर्हि तन्निवृत्त्या पुरुषार्थपरिसमाप्तिः ? तत्राह -

प्रमाणेति ।

अन्वयव्यतिरेकाख्येन अनुमानेन आगमेन च पदार्थपरिशोधनपरिनिष्पन्ना विवेकात्मिका या बुद्धिः, तां निमीत्तीकृत्य समुत्पन्नसम्यग्बोधानुरोधात् प्रकृता विपरीतबुद्धयो व्यावर्तन्ते । तास्वसङ्ख्यातासु व्यावृत्तासु सतीषु निरालम्बनतया संसारोऽपि स्थातुमशक्नुवन् उपरतो भवतीत्यर्थः ।

याः पुनः इत्युपक्रान्तास्तत्त्वज्ञानापनोद्याः संसारास्पदीभूताः विपरीतबुद्धीरनुक्रामति -

ता बुद्धय इति ।

बुद्धीनां वृक्षस्येव कुतो बहुशाखित्वम् ? तत्राह -

बहुभेदा इत्येतदिति ।

एकैकां बुद्धिम्प्रति शाखाभेदोऽवान्तरविशेषः, तेन बुद्धीनामसङ्ख्यात्वं प्रख्यातमित्याह -

प्रतिशाखेति ।

बुद्धीनामानन्त्यप्रसिद्धिप्रद्योतनार्थो हिशब्दः ।

सम्यग्ज्ञानवतां यथोक्तबुद्धिभेदभाक्त्वमप्रसिद्धमित्याशङ्क्य प्रत्याह -

केषामित्यादिना

॥ ४१ ॥