तेषां संसारपरिवर्तनपरिदर्शनार्थं प्रस्तुतां वाचमेव विशिनष्टि -
जन्मेति ।
ननु - पुंसां कामस्वभावत्वमयुक्तम् , चेतनस्येच्छावतस्तदात्मत्वानुपपत्तेः, इति तत्राह -
कामपरा इति ।
तत्परत्वं - तत्तत्फलार्थित्वेन तत्तदुपायेषु कर्मस्वेव प्रवृत्ततया कर्मसंन्यासपूर्वकात् ज्ञानाद्बहिर्मुखत्वम् ।
ननु - कर्मनिष्ठानामपि परमपुरुषार्थापेक्षया मोक्षोपाये ज्ञाने भवत्याभिमुख्यमिति, नेत्याह -
स्वर्गेति ।
तत्परत्वं - तस्मिन्नेवासक्ततया तदतिरिक्तपुरुषार्थराहित्यनिश्चयवत्त्वम् । उच्चावचमध्यमदेहप्रभेदग्रहणं जन्म । वाचो यथोक्तफलप्रदत्वं अप्रामाणिकम् इत्याशङ्क्य, अऩुष्ठानद्वारा तदुपपत्तिरित्याह -
क्रियेति ।
क्रियाणां - अनुष्ठानानां विशेषाः - देशकालाधिकारिप्रयुक्तः सप्ताहानेकाहलक्षणाः, ते खल्वस्यां वाचि प्राचुर्येण प्रतिभान्तीत्यर्थः ।
कथं यथोक्तायां वाचि क्रियाविशेषाणां बाहुल्येन अवस्थानम् ? इत्याशङ्क्य, प्रकाश्यत्वेनेत्येतद्विशदयति -
स्वर्गेति ।
तथापि तेषां मोक्षोपायत्वोपपत्तेः, तन्निष्ठानां मोक्षाभिमुख्यं भविष्यति, नेत्याह -
भोगेति ।
यथोक्तां वाचमभिवदतां पर्यवसानं दर्शयति -
तद्बहुलामिति
॥ ४३ ॥