ननु - कर्मकाण्डनिष्ठानां कर्मानुष्ठायिनामपि बुद्धिशुद्धिद्वारेण अऩ्तःकरणे साध्यसाधनभूतबुद्धिद्वयसमुदयसम्भवात् , अतो मोक्षो भविष्यति, नेत्याह -
तेषां चेति ।
तदात्मभूतानां - तयोरेव भोगैश्वर्ययोरात्मकर्तव्यत्वेन आरोपितयोः, अभिनिविष्टे चेतसि तादात्म्याध्यासवतां बहिर्मुखानामित्यर्थः ।