श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्
व्यवसायात्मिका बुद्धिः समाधौ विधीयते ॥ ४४ ॥
भोगैश्वर्यप्रसक्तानां भोगः कर्तव्यः ऐश्वर्यं इति भोगैश्वर्ययोरेव प्रणयवतां तदात्मभूतानाम्तया क्रियाविशेषबहुलया वाचा अपहृतचेतसाम् आच्छादितविवेकप्रज्ञानां व्यवसायात्मिका साङ्‍ख्ये योगे वा बुद्धिः समाधौ समाधीयते अस्मिन् पुरुषोपभोगाय सर्वमिति समाधिः अन्तःकरणं बुद्धिः तस्मिन् समाधौ, विधीयते भवति इत्यर्थः ॥ ४४ ॥

तथापि शास्त्रानुसारिण्या विवेकप्रज्ञया व्यवसायात्मिका बुद्धिस्तेषामुदेष्यति, इत्याशङ्क्याह-

तयेति ।

ननु - समाधिः सम्प्रज्ञातासम्प्रज्ञातभेदेन द्विधोच्यते, तत्र बुद्धिद्वयविधिरप्रसक्तः सन् कथं निषिध्यते ? तत्राह -

समाधीयत इति

॥ ४४ ॥