श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वेषु वेदोक्तेषु कर्मसु यान्युक्तान्यनन्तानि फलानि तानि नापेक्ष्यन्ते चेत् , किमर्थं तानि ईश्वरायेत्यनुष्ठीयन्ते त्युच्यते ; शृणु
सर्वेषु वेदोक्तेषु कर्मसु यान्युक्तान्यनन्तानि फलानि तानि नापेक्ष्यन्ते चेत् , किमर्थं तानि ईश्वरायेत्यनुष्ठीयन्ते त्युच्यते ; शृणु

ईश्वरार्पणधिया स्वधर्मानुष्ठानेऽपि फलकामनाभावाद्वैफल्यं योगमार्गस्येति मन्वानः शङ्कते -

सर्वेष्विति ।

कर्ममार्गस्य फलवत्त्वं प्रतिजानीते-

उच्यत इति ।

किं तत्फलम् ? इत्युक्ते तद्विषयं श्लोकमवतारयति -

श्रृण्विति ।

यथा उदपाने - कूपादौ परिच्छिन्नोदके स्नानाचमनादिर्योऽर्थो यावान् उत्पद्यते स तावान् अपरिच्छिन्ने सर्वतःसम्प्लुतोदके समुद्रेऽन्तर्भवति, परिच्छिन्नोदकानाम् अपरिच्छिन्नोदकांशत्वात् । तथा, सर्वेषु वेदोक्तेषु कर्मसु यावान् अर्थो विषयविशेषोपरक्तः सुखविशेषो जायते, स तावान् आत्मविदः स्वरूपभूते सुखेऽन्तर्भवति, परिच्छिन्नानन्दानाम् अपरिच्छिन्नानन्दान्तर्भावाभ्युपगमात् , ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४-३-३२) इति श्रुतेः ।