श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥
कर्मण्येव अधिकारः ज्ञाननिष्ठायां ते तवतत्र कर्म कुर्वतः मा फलेषु अधिकारः अस्तु, कर्मफलतृष्णा मा भूत् कदाचन कस्याञ्चिदप्यवस्थायामित्यर्थःयदा कर्मफले तृष्णा ते स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः, एवं मा कर्मफलहेतुः भूःयदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि प्रवर्तते तदा कर्मफलस्यैव जन्मनो हेतुर्भवेत्यदि कर्मफलं नेष्यते, किं कर्मणा दुःखरूपेण ? इति मा ते तव सङ्गः अस्तु अकर्मणि अकरणे प्रीतिर्मा भूत् ॥ ४७ ॥

तर्हि तत्फलाभिलाषोऽपि स्यात् इति, नेत्याह -

माफलेष्विति ।

पूर्वोक्तमेवार्थं प्रपञ्चयति -

मा कर्मेति ।

फलाभिसन्ध्यसम्भवे कर्माकरणमेव श्रद्दधामि, इत्याशङ्क्याह -

मा ते इति ।

ज्ञानानधिकारिणोऽपि कर्मत्यागप्रसक्तिं निवारयति -

कर्मण्येवेति ।

कर्मण्येवेति, एवकारार्थमाह -

न ज्ञानेति ।

नहि तत्र अब्राह्मणस्य अपरिपक्वकषायस्य मुख्योऽधिकारः सिध्यतीत्यर्थः ।

फलैस्तर्हि सम्बन्धो दुर्वारः स्यात् , इत्याशङ्क्याह -

तत्रेति ।

कर्मण्येवाधिकरे सतीति सप्तम्यर्थः ।

फलेष्वधिकाराभावं स्फोरयति -

कर्मेति ।

कर्मानुष्ठानात् प्रागूर्ध्वं तत्काले चेत्येतत् कदाचनेति विवक्षितमित्याह -

कस्याञ्चिदिति ।

फलाभिसंधाने दोषमाह -

यदेति ।

एवं कर्मफलतृष्णाद्वारेणेत्यर्थः ।

कर्मफलहेतुत्वं विवृणोति -

यदा हीति ।

तर्हि विफलं क्लेशात्मकं कर्म न कर्तव्यम् , इति शङ्कामनुभाष्य दूषयति -

यदीत्यादिना ।

अकर्मणि ते सङ्गो मा भूत् , इत्युक्तमेव स्पष्टयति -

अकरण इति

॥ ४७ ॥