श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५० ॥
बुद्धियुक्तः कर्मसमत्वविषयया बुद्ध्या युक्तः बुद्धियुक्तः सः जहाति परित्यजति इह अस्मिन् लोके उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यतः, तस्मात् समत्वबुद्धियोगाय युज्यस्व घटस्वयोगो हि कर्मसु कौशलम् , स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यासिद्ध्योः समत्वबुद्धिः ईश्वरार्पितचेतस्तया तत् कौशलं कुशलभावःतद्धि कौशलं यत् बन्धनस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावात् निवर्तन्तेतस्मात्समत्वबुद्धियुक्तो भव त्वम् ॥ ५० ॥

बुद्धियोगस्य फलवत्त्वे फलितमाह -

तस्मादिति ।

पूर्वार्धं व्याचष्टे -

बुद्धीत्यादिना ।

ननु - समत्वबुद्धिमात्रात् न पुण्यपापनिवृत्तिर्युक्ता, परमार्थदर्शनवतस्तन्निवृत्तिप्रसिद्धेः, इति तत्राह -

सत्त्वेति ।

उत्तरार्धं व्याचष्टे -

तस्मादिति ।

स्वधर्ममनुतिष्ठतो यथोक्तयोगार्थं किमर्थं मनो योजनीयम् ? इत्याशङ्क्याह -

योगो हीति ।

तर्हि यथोक्तयोगसामर्थ्यादेव दर्शितफलसिद्धेरनास्था स्वधर्मानुष्ठाने प्राप्ता, इत्याशङ्क्याह -

स्वधर्माख्येष्विति ।

ईश्वरार्पितचेतस्तया कर्मसु वर्तमानस्य - अनुष्ठाननिष्ठस्य या यथोक्ता बुद्धिः, तत् तेषु कौशलम् इति योजना ।

कर्मणां बन्धस्वभावत्वात् तदनुष्ठाने बन्धानुबन्धः स्यात् , इत्याशङ्क्य कौशलमेव विशदयति -

तद्धीति ।

समत्वबुद्धेरेवंफलत्वे स्थिते फलितमुपसंहरति -

तस्मादिति

॥ ५० ॥