श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५ ॥
प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्काले सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ, मनोगतान् मनसि प्रविष्टान् हृदि प्रविष्टान् । सर्वकामपरित्यागे तुष्टिकारणाभावात् शरीरधारणनिमित्तशेषे च सति उन्मत्तप्रमत्तस्येव प्रवृत्तिः प्राप्ता, इत्यत उच्यते — आत्मन्येव प्रत्यगात्मस्वरूपे एव आत्मना स्वेनैव बाह्यलाभनिरपेक्षः तुष्टः परमार्थदर्शनामृतरसलाभेन अन्यस्मादलंप्रत्ययवान् स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञः विद्वान् तदा उच्यते । त्यक्तपुत्रवित्तलोकैषणः संन्यासी आत्माराम आत्मक्रीडः स्थितप्रज्ञ इत्यर्थः ॥ ५५ ॥

स्थितप्रज्ञस्य का भाषा ? इति प्रथमप्रश्नस्योत्तरमाह -

प्रजहातीति ।

कामत्यागस्य प्रकर्षः - वासनाराहित्यम् । कामानामात्मनिष्ठत्वं कैश्विदिष्यते । तदयुक्तम् , तेषां मनोनिष्ठत्वश्रुतेः, इत्याशयवानाह -

मनोगतानिति ।

‘आत्मन्येवात्मना’ (भ. गी. २-५५) इत्याद्युत्तरभागनिरस्यं चोद्यमनुवदति -

सर्वकामेति ।

तर्हि प्रवर्तकाभावाद्विदुषः सर्वप्रवृत्तेरुपशान्तिरिति, नेत्याह -

शरीरेति ।

उन्मादवान् उन्मत्तः - विवेकविरहितबुद्धिभ्रमभागी । प्रकर्षेण मदमनुभवन् विद्यमानमपि विवेकं निरस्यन् भ्रान्तवद्व्यवहरन् प्रमत्तः इति विभागः ।

उत्तरार्धमवतार्य व्याकरोति -

उच्यत इति ।

आत्मन्येव इत्येवकारस्य ‘आत्मना’ इत्यत्रापि सम्बन्धं द्योतयति -

स्वेनैवेति ।

बाह्मलाभनिरपेक्षत्वेन तुष्टिमेव स्पष्टयति -

परमार्थेति ।

स्थितप्रज्ञपदं विभजते -

स्थितेति ।

प्रज्ञाप्रतिबन्घकसर्वकामविगमावस्था तदेति निर्दिश्यते ।

उक्तमेव प्रपञ्चयति -

त्यक्तेति ।

आत्मानं जिज्ञासमानो वैराग्यद्वारा सर्वैषणात्यागात्मकं संन्यासमासाद्य, श्रवणाद्यावृत्त्या तज्ज्ञानं प्राप्य, तस्मिन्नेव आसक्त्या विषयवैमुख्येन तत्फलभूतां परितुष्टिं तत्रैव प्रतिलभमानः स्थितप्रज्ञव्यपदेशभाक् इत्यर्थः ॥ ५५ ॥