श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५ ॥
यो ह्यादित एव संन्यस्य कर्माणि ज्ञानयोगनिष्ठायां प्रवृत्तः, यश्च कर्मयोगेन, तयोः ‘प्रजहाति’ इत्यारभ्य आ अध्यायपरिसमाप्तेः स्थितप्रज्ञलक्षणं साधनं चोपदिश्यते । सर्वत्रैव हि अध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनानि उपदिश्यन्ते, यत्नसाध्यत्वात् । यानि यत्नसाध्यानि साधनानि लक्षणानि च भवन्ति तानि श्रीभगवानुवाच —

प्रतिवचनमवतारयितुं पातनिकां करोति -

यो हीति ।

हिशब्देन कर्मसंन्यासकारणीभूतविरागतासम्पत्तिः सूच्यते । आदितः - ब्रह्मचर्यावस्थायामिति यावत् । ज्ञानमेव योगो ब्रह्मात्मभावप्रापकत्वात् , तस्मिन् निष्ठा - परिसमाप्तिः, तस्यामित्यर्थः । कर्मैव योगस्तेन, कर्माण्यसंन्यस्य तन्निष्ठायामेव प्रवृत्त इति शेषः ।

ननु - तत् कथमेकेन वाक्येन अर्थद्वयमुपदिश्यते ? द्वैयर्थ्ये वाक्यभेदात् । नच लक्षणमेव साधनम् , कृतार्थलक्षणस्य तत्स्वरूपत्वेन फलत्वे साधनत्वानुपपत्तेः, इति तत्राह-

सर्वत्रैवेति ।

यद्यपि कृतार्थस्य - ज्ञानिनो लक्षणं तद्रूपेण फलत्वान्न  साधनत्वमधिगच्छति, तथापि जिज्ञासोस्तदेव प्रयत्नसाध्यतया साधनं सम्पद्यते । लक्षणं चात्र ज्ञानसामर्थ्यलब्धमनूद्यते । न विधीयते, विदुषो विधिनिषेधागोचरत्वात् । तेन जिज्ञासोः साधनानुष्ठानाय लक्षणानुवादात् एकस्मिन्नेव साधनानुष्ठाने तात्पर्यमित्यर्थः ।

उक्तेऽर्थे भगवद्वाक्यमुत्थापयति -

यानीति ।

लक्षणानि च ज्ञानसामर्थ्यलभ्यानि, अयत्नसाध्यानीति शेषः ।