श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५ ॥
प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्काले सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ, मनोगतान् मनसि प्रविष्टान् हृदि प्रविष्टान्सर्वकामपरित्यागे तुष्टिकारणाभावात् शरीरधारणनिमित्तशेषे सति उन्मत्तप्रमत्तस्येव प्रवृत्तिः प्राप्ता, इत्यत उच्यतेआत्मन्येव प्रत्यगात्मस्वरूपे एव आत्मना स्वेनैव बाह्यलाभनिरपेक्षः तुष्टः परमार्थदर्शनामृतरसलाभेन अन्यस्मादलंप्रत्ययवान् स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञः विद्वान् तदा उच्यतेत्यक्तपुत्रवित्तलोकैषणः संन्यासी आत्माराम आत्मक्रीडः स्थितप्रज्ञ इत्यर्थः ॥ ५५ ॥

स्थितप्रज्ञस्य का भाषा ? इति प्रथमप्रश्नस्योत्तरमाह -

प्रजहातीति ।

कामत्यागस्य प्रकर्षः - वासनाराहित्यम् । कामानामात्मनिष्ठत्वं कैश्विदिष्यते । तदयुक्तम् , तेषां मनोनिष्ठत्वश्रुतेः, इत्याशयवानाह -

मनोगतानिति ।

‘आत्मन्येवात्मना’ (भ. गी. २-५५) इत्याद्युत्तरभागनिरस्यं चोद्यमनुवदति -

सर्वकामेति ।

तर्हि प्रवर्तकाभावाद्विदुषः सर्वप्रवृत्तेरुपशान्तिरिति, नेत्याह -

शरीरेति ।

उन्मादवान् उन्मत्तः - विवेकविरहितबुद्धिभ्रमभागी । प्रकर्षेण मदमनुभवन् विद्यमानमपि विवेकं निरस्यन् भ्रान्तवद्व्यवहरन् प्रमत्तः इति विभागः ।

उत्तरार्धमवतार्य व्याकरोति -

उच्यत इति ।

आत्मन्येव इत्येवकारस्य ‘आत्मना’ इत्यत्रापि सम्बन्धं द्योतयति -

स्वेनैवेति ।

बाह्मलाभनिरपेक्षत्वेन तुष्टिमेव स्पष्टयति -

परमार्थेति ।

स्थितप्रज्ञपदं विभजते -

स्थितेति ।

प्रज्ञाप्रतिबन्घकसर्वकामविगमावस्था तदेति निर्दिश्यते ।

उक्तमेव प्रपञ्चयति -

त्यक्तेति ।

आत्मानं जिज्ञासमानो वैराग्यद्वारा सर्वैषणात्यागात्मकं संन्यासमासाद्य, श्रवणाद्यावृत्त्या तज्ज्ञानं प्राप्य, तस्मिन्नेव आसक्त्या विषयवैमुख्येन तत्फलभूतां परितुष्टिं तत्रैव प्रतिलभमानः स्थितप्रज्ञव्यपदेशभाक् इत्यर्थः ॥ ५५ ॥