श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यो ह्यादित एव संन्यस्य कर्माणि ज्ञानयोगनिष्ठायां प्रवृत्तः, यश्च कर्मयोगेन, तयोःप्रजहातिइत्यारभ्य अध्यायपरिसमाप्तेः स्थितप्रज्ञलक्षणं साधनं चोपदिश्यतेसर्वत्रैव हि अध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनानि उपदिश्यन्ते, यत्नसाध्यत्वात्यानि यत्नसाध्यानि साधनानि लक्षणानि भवन्ति तानि श्रीभगवानुवाच

प्रतिवचनमवतारयितुं पातनिकां करोति -

यो हीति ।

हिशब्देन कर्मसंन्यासकारणीभूतविरागतासम्पत्तिः सूच्यते । आदितः - ब्रह्मचर्यावस्थायामिति यावत् । ज्ञानमेव योगो ब्रह्मात्मभावप्रापकत्वात् , तस्मिन् निष्ठा - परिसमाप्तिः, तस्यामित्यर्थः । कर्मैव योगस्तेन, कर्माण्यसंन्यस्य तन्निष्ठायामेव प्रवृत्त इति शेषः ।

ननु - तत् कथमेकेन वाक्येन अर्थद्वयमुपदिश्यते ? द्वैयर्थ्ये वाक्यभेदात् । नच लक्षणमेव साधनम् , कृतार्थलक्षणस्य तत्स्वरूपत्वेन फलत्वे साधनत्वानुपपत्तेः, इति तत्राह-

सर्वत्रैवेति ।

यद्यपि कृतार्थस्य - ज्ञानिनो लक्षणं तद्रूपेण फलत्वान्न  साधनत्वमधिगच्छति, तथापि जिज्ञासोस्तदेव प्रयत्नसाध्यतया साधनं सम्पद्यते । लक्षणं चात्र ज्ञानसामर्थ्यलब्धमनूद्यते । न विधीयते, विदुषो विधिनिषेधागोचरत्वात् । तेन जिज्ञासोः साधनानुष्ठानाय लक्षणानुवादात् एकस्मिन्नेव साधनानुष्ठाने तात्पर्यमित्यर्थः ।

उक्तेऽर्थे भगवद्वाक्यमुत्थापयति -

यानीति ।

लक्षणानि च ज्ञानसामर्थ्यलभ्यानि, अयत्नसाध्यानीति शेषः ।