श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥
क्रोधात् भवति संमोहः अविवेकः कार्याकार्यविषयः । क्रुद्धो हि संमूढः सन् गुरुमप्याक्रोशति । संमोहात् स्मृतिविभ्रमः शास्त्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यात् विभ्रमो भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तौ अनुत्पत्तिः । ततः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धेर्नाशः । कार्याकार्यविषयविवेकायोग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यते । बुद्धिनाशात् प्रणश्यति । तावदेव हि पुरुषः यावदन्तःकरणं तदीयं कार्याकार्यविषयविवेकयोग्यम् । तदयोग्यत्वे नष्ट एव पुरुषो भवति । अतः तस्यान्तःकरणस्य बुद्धेर्नाशात् प्रणश्यति पुरुषार्थायोग्यो भवतीत्यर्थः ॥ ६३ ॥

क्रोधस्य संमोहहेतुत्वमनुभवेन द्रढयति -

क्रुद्धो हीति ।

आक्रोशति - अधिक्षिपति । तदयोग्यत्वमपेरर्थः ।

संमोहकार्यं कथयति -

संमोहादिति ।

स्मृतेर्निमित्तनिवेदनद्वारा स्वरूपं  निरूपयति -

शास्त्रेति ।

क्षणिकत्वादेवतस्याः स्वतो नाशसम्भवात् , न संमोहाधीनत्वं तस्येत्याशङ्क्याह -

स्मृतीति ।

स्मृतिभ्रंशेऽपि कथं बुद्धिनाशः स्वरूपतः सिध्यति ? तत्राह -

कार्येति ।

ननु - पुरुषस्य नित्यसिद्धस्य बुद्धिनाशेऽपि प्रणाशो न कल्पते, तत्राह -

तावदेवेति ।

कार्याकार्यविवेचनयोग्यान्तःकरणाभावे सतोऽपि पुरुषस्य करणाभावात् , अपगततत्त्वविवेकविवक्षया नष्टत्वव्यपदेशः ।

तदेतदाह -

पुरुषार्थेति

॥ ६३ ॥