क्रोधस्य संमोहहेतुत्वमनुभवेन द्रढयति -
क्रुद्धो हीति ।
आक्रोशति - अधिक्षिपति । तदयोग्यत्वमपेरर्थः ।
संमोहकार्यं कथयति -
संमोहादिति ।
स्मृतेर्निमित्तनिवेदनद्वारा स्वरूपं निरूपयति -
शास्त्रेति ।
क्षणिकत्वादेवतस्याः स्वतो नाशसम्भवात् , न संमोहाधीनत्वं तस्येत्याशङ्क्याह -
स्मृतीति ।
स्मृतिभ्रंशेऽपि कथं बुद्धिनाशः स्वरूपतः सिध्यति ? तत्राह -
कार्येति ।
ननु - पुरुषस्य नित्यसिद्धस्य बुद्धिनाशेऽपि प्रणाशो न कल्पते, तत्राह -
तावदेवेति ।
कार्याकार्यविवेचनयोग्यान्तःकरणाभावे सतोऽपि पुरुषस्य करणाभावात् , अपगततत्त्वविवेकविवक्षया नष्टत्वव्यपदेशः ।
तदेतदाह -
पुरुषार्थेति
॥ ६३ ॥