श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रसादे सर्वदुःखानां हानिरस्योपजायते
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥
प्रसादे सर्वदुःखानाम् आध्यात्मिकादीनां हानिः विनाशः अस्य यतेः उपजायतेकिञ्चप्रसन्नचेतसः स्वस्थान्तःकरणस्य हि यस्मात् आशु शीघ्रं बुद्धिः पर्यवतिष्ठते आकाशमिव परि समन्तात् अवतिष्ठते, आत्मस्वरूपेणैव निश्चलीभवतीत्यर्थः

सर्वदुःखहान्या बुद्धिस्वास्थ्येऽपि, प्रकृतं प्रज्ञास्थैर्यं कथं सिद्धम् ? इत्याशङ्क्याह -

प्रसन्नेति ।

बुद्धिप्रसादस्यैव फलान्तरमाह -

किञ्चेति ।

तस्मात् बुद्धिप्रसादार्थं प्रयतितव्यमिति शेषः ।