श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नास्ति बुद्धिरयुक्तस्य चायुक्तस्य भावना
चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥
नास्ति विद्यते भवतीत्यर्थः, बुद्धिः आत्मस्वरूपविषया अयुक्तस्य असमाहितान्तःकरणस्य अस्ति अयुक्तस्य भावना आत्मज्ञानाभिनिवेशःतथा अस्ति अभावयतः आत्मज्ञानाभिनिवेशमकुर्वतः शान्तिः उपशमःअशान्तस्य कुतः सुखम् ? इन्द्रियाणां हि विषयसेवातृष्णातः निवृत्तिर्या तत्सुखम् , विषयविषया तृष्णादुःखमेव हि सा तृष्णायां सत्यां सुखस्य गन्धमात्रमप्युपपद्यते इत्यर्थः ॥ ६६ ॥

असमाहितस्यापि बुद्धिमात्रमुत्पद्यमानं प्रतिभाति, इत्याशङ्क्य विशिनष्टि -

आत्मस्वरूपेति ।

नहि विक्षिप्तचित्तस्य आत्मस्वरूपविषया बुद्धिरुदेतुमर्हति, इत्यत्र हेतुमाह -

नचेति ।

आत्मज्ञाने शब्दादापाततो जाते, स्मृतिसन्तानकरणं साक्षात्कारार्थमभिनिवेशो भावनेतिचोच्यते । न चासौ विक्षिप्तबुद्धेः सिध्यति, इति हेत्वर्थं विवक्षित्वाह -

आत्मज्ञानेति ।

भावनाद्वारा साक्षात्काराभावेऽपि का क्षतिः ? इत्याशङ्क्याह -

तथेति ।

असमाहितस्य भावनाभाववदिति यावत् ।

आत्मनि आपाततो ज्ञाते श्रवणाद्यावृत्तिरूपां स्मृतिम् अनातन्वानस्य अपरोक्षबुद्ध्यभावे, न अनर्थनिवृत्तिः सिध्यतीत्याह -

उपशम इति ।

अनिवृत्तानर्थस्य परमानन्दसागराद्विभक्तस्य संसारवारिधौ निमग्नस्य सुखाविर्भावो न सम्भवतीत्याह -

अशान्तस्येति ।

तस्यापि विषयसेवातो वैषयिकं सुखं सम्भवति, इत्याशङ्क्याह -

इन्द्रियाणां हीति ।

तृष्णाक्षयस्य शास्त्रप्रसिद्धमानुभविकं च सुखत्वमिति वक्तुं हिशब्दः ।

विषयसेवातृष्णयापि विषयोपभोगद्वारा सुखमुपलब्धम् , इत्याशङ्क्याह -

दुःखमेवेति ।

तत्रापि हिशब्दः अनुभवद्योती ।

तदेव स्पष्टयति -

नेत्यादिना

॥ ६६ ॥