श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्
तद्वत्कामा यं प्रविशन्ति सर्वे शान्तिमाप्नोति कामकामी ॥ ७० ॥
आपूर्यमाणम् अद्भिः अचलप्रतिष्ठम् अचलतया प्रतिष्ठा अवस्थितिः यस्य तम् अचलप्रतिष्ठं समुद्रम् आपः सर्वतो गताः प्रविशन्ति स्वात्मस्थमविक्रियमेव सन्तं यद्वत् , तद्वत् कामाः विषयसंनिधावपि सर्वतः इच्छाविशेषाः यं पुरुषम्समुद्रमिव आपःअविकुर्वन्तः प्रविशन्ति सर्वे आत्मन्येव प्रलीयन्ते स्वात्मवशं कुर्वन्ति, सः शान्तिं मोक्षम् आप्नोति, इतरः कामकामी, काम्यन्त इति कामाः विषयाः तान् कामयितुं शीलं यस्य सः कामकामी, नैव प्राप्नोति इत्यर्थः ॥ ७० ॥

अद्भिः समुद्रस्य समन्तात् पूर्यमाणत्वे वृद्धिह्रासवती तदीया स्थितिरापतेत् , इत्याशङ्क्याह -

अचलेति ।

नहि समुद्रस्योदकात्मकं प्रतिनियतं रूपं कदाचिद्विवर्धते ह्रसते वा । तेन तदीया स्थितिरेकरूपैवेत्यर्थः ।

तत्तन्नादेयाश्चेदापः समुद्रान्तर्गच्छन्ति, तर्हि तस्य विक्रियावत्त्वादप्रतिष्ठा स्यात् , इत्याशङ्क्याह -

स्वात्मस्थमिति ।

इच्छाविशेषा विषयाणामसंनिधौ विदुषि निर्विकारे प्रविशन्तोऽपि संनिधाने तस्मिन् प्रविशन्तो विकारमापादयेयुः, इत्याशङ्क्याह -

विषयेति ।

प्रवेशं विशदयति -

सर्वत इति ।

‘योऽकामः’ (बृ. ४.४.६ ) इत्यादिश्रुतेः, विषयविमुखस्य निष्कामस्य मोक्षः, न कामकामुकस्येत्याह -

स शान्तिमिति

॥ ७० ॥