श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः
निर्ममो निरहङ्कारः शान्तिमधिगच्छति ॥ ७१ ॥
विहाय परित्यज्य कामान् यः संन्यासी पुमान् सर्वान् अशेषतः कार्‌त्स्न्येन चरति, जीवनमात्रचेष्टाशेषः पर्यटतीत्यर्थःनिःस्पृहः शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य सः निःस्पृहः सन् , निर्ममः शरीरजीवनमात्राक्षिप्तपरिग्रहेऽपि ममेदम् इत्यपभिनिवेशवर्जितः, निरहङ्कारः विद्यावत्त्वादिनिमित्तात्मसम्भावनारहितः इत्येतत्सः एवंभूतः स्थितप्रज्ञः ब्रह्मवित् शान्तिं सर्वसंसारदुःखोपरमलक्षणां निर्वाणाख्याम् अधिगच्छति प्राप्नोति ब्रह्मभूतो भवति इत्यर्थः ॥ ७१ ॥

अशेषविषयत्यागे जीवनमपि कथम् ? इत्याशङ्क्याह -

जीवनेति ।

सम्भवद्रागद्वेषादिके देशे निवासव्यावृत्त्यर्थं चरतीत्येतद् व्याचष्टे-

पर्यटतीति ।

‘विहाय कामान्’ (भ. गी. २-७१) इत्यनेन पुनरुक्तिं परिहरति-

शरीरेति ।

निःस्पृहत्वमुक्त्वा निर्ममत्वं पुनर्वदन् , कथं पुनरुक्तिमार्थिकीं न पश्यसि ? इत्याशङ्क्याह -

शरीरजीवनेति ।

सत्यहङ्कारे ममकारस्य आवश्यकत्वात् निरहङ्कारत्वं व्याकरोति -

विद्यावत्त्वादीति ।

‘स शान्तिमाप्नोति’ इत्युक्तमुपसंहरति -

स एवंभूत इति ।

संन्यासिनो मोक्षमपेक्षमाणस्य सर्वकामपरित्यागादीनि श्लोकोक्तानि विशेषणानि यत्नसाध्यानि, तत्संमतिफलं तु  कैवल्यमित्यर्थः ॥ ७१ ॥