श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥
एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः सर्वं कर्म संन्यस्य ब्रह्मरूपेणैव अवस्थानम् इत्येतत्हे पार्थ, एनां स्थितिं प्राप्य लब्ध्वा विमुह्यति मोहं प्राप्नोतिस्थित्वा अस्यां स्थितौ ब्राह्म्यां यथोक्तायां अन्तकालेऽपि अन्त्ये वयस्यपि ब्रह्मनिर्वाणं ब्रह्मनिर्वृतिं मोक्षम् ऋच्छति गच्छतिकिमु वक्तव्यं ब्रह्मचर्यादेव संन्यस्य यावज्जीवं यो ब्रह्मण्येव अवतिष्ठते ब्रह्मनिर्वाणमृच्छति इति ॥ ७२ ॥

गृहस्थः संन्यासी इत्युभावपि चेन्मुक्तिभोगिनौ, किं तर्हि कष्टेन सर्वथैव संन्यासेन इत्याशङ्क्य, संन्यासिव्यतिरिक्तानामन्तरायसम्भवात् अपेक्षितः संन्यासो मुमुक्षोः, इत्याह -

एषेति ।

स्थितिमेव व्याचष्टे -

सर्वमिति ।

न विमुह्यतीति पुनर्नञोऽनुकर्षणमन्वयार्थम् । संन्यासिनो विमोहाभावेऽपि गृहस्थो धनहान्यादिनिमित्तं प्रायेण विमुह्यति । विक्षिप्तः सन् परमार्थविवेकरहितो भवतीत्यर्थः । यथोक्ता ब्राह्मी स्थितिः - सर्वकर्मसंन्यासपूर्विका ब्रह्मनिष्ठा, तस्यां स्थित्वा तामिमाम् , आयुषश्चतुर्थेऽपि भागे कृत्वेत्यर्थः ।

अपिशब्दसूचितं कैमुतिकन्यायमाह -

किमु वक्तव्यमिति ।

तदेवं तत्त्वम्पदार्थौ, तदैक्यम् , वाक्यार्थः, तज्ज्ञानादेकाकिनो मुक्तिः, तदुपायश्च - इत्येतेषामेकैकत्र श्लोके प्राधान्येन प्रदर्शितमिति निष्ठाद्वयमुपायोपेयभूतमध्यायेन सिद्धम् ॥ ७२ ॥