विरोधं परिहरन् आशङ्कते -
तत्रेति ।
सम्बन्धग्रन्थे हि वृत्तिकारस्यैतदभिप्रेतम् - गृहस्थानामेव सतां परिपक्कज्ञानमन्तरेण यावज्जीवश्रुतिचोदिताग्निहोत्रादित्यागेन केवलादेवापातिकादात्मज्ञानात् मोक्षमपेक्षमाणानां यावज्जीवादिशास्रैरसौ निषिध्यते, न तु स्वरूपेणैव कर्मत्यागो ज्ञानान्मोक्षो वा निषेद्धुमिष्यते । तृतीये पुनरध्याये कर्मत्यागिनां गृहस्थेभ्यो व्यतिरिक्तानामेव केवलादात्मज्ञानान्मोक्षो विवक्ष्यते । अतो भिन्नाविषयत्वान्निषेधाभ्यनुज्ञानयोर्नविरोधाशंकेत्यर्थः।
विरोधान्तरेण विरोधं दर्शयन्नुत्तरमाह -
एतदपीति ।
विरोधमेवाकाङ्क्षाद्वारा साधयति -
कथमित्यादिना ।