यदि गृहस्थानां ब्रह्मज्ञानं स्मार्तैरेव कर्मभिः समुच्चितं मोक्षहेतुरिति विवक्षितं, तदा तान् प्रति यावज्जीवश्रुतिर्विरुध्येत । यदि स्मार्तैरपि कर्मभिः समुच्चितं तदीयं ज्ञानं मोक्षसाधनं विवक्ष्यते, तदा सिद्धसाध्यतेति प्रागुक्तमभिप्रेत्य चोदयति -
अथेति ।
आश्रमान्तराणां तर्हि केवलादेव ज्ञानान्मुक्तिरिति प्रागुक्तविरोधतादवस्थ्यमित्याशङ्क्याह -
ऊर्ध्वरेतसां त्विति ।
यथोक्ते विभागे, गार्हस्थ्यं क्लेशात्मककर्मबाहुल्यादनुपादेयमापद्येतेति दूषयति -
तत्रेति ।