साधनभूयस्त्वे फलभूयस्त्वमिति न्यायमाश्रित्य शङ्कते -
अथेति ।
क्लेशबाहुल्योपेतं श्रौतं स्मार्तं च बहु कर्म । तस्यानुष्ठानाद् गृहस्थस्य मोक्षः स्यादेवेत्यर्थः ।
एवकारनिरस्यं दर्शयति -
नाश्रमान्तराणामिति ।
तेषां नास्ति मुक्तिरित्यत्र यावज्जीवादिश्रुतिविहितावश्यानुष्ठेयकर्मराहित्यं हेतुं सूचयति -
श्रौतेति ।
शास्त्रविरोधिन्यायस्य निरवकाशत्वमभिप्रेत्य दूषयति -
तदपीति ।
ऐकाश्रम्यस्मृत्या गार्हस्थ्यस्यैव प्राधान्यादनधिकृतान्धादिविषयं कर्मसंन्यासविधानमित्याशङ्क्याह -
ज्ञानाङ्गत्वेनेति ।
न खल्वनधिकृतानामन्धादीनां संन्यासः श्रवणाद्यावृत्तिद्वारा ज्ञानाङ्गं भवितुमलम्, तेषां श्रवणाद्यभ्यासासामर्थ्यात् । अतः श्रुत्यादीनां विरोधे नास्ति गार्हस्थ्यस्य प्राधान्यमित्यर्थः ।
तस्य प्राधान्याभावे हेत्वन्तरमाह -
आश्रमेति ।
‘ब्रह्मचर्यं समाप्य गृही भवेद् , गृहाद्वनी भूत्वा प्रव्रजेद् , यदि वा इतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद् वा वनाद् वा‘ (जा. उ. ४., या. उ. १ ) इति श्रुतौ, ‘तस्याश्रमविकल्पमेके ब्रुवते’ (गौ. ध. ३-१) इति ‘यमिच्छेत् तमावसेत्’ (व. ८-२ ?) इत्यादिस्मृतौ च आश्रमाणां समुच्चयेन विकल्पेन चाश्रमान्तरमिच्छन्तं प्रति विधानान्न गार्हस्थ्यस्य प्रधानत्वमित्यर्थः ॥