श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदि पुनः एकस्य पुरुषस्य ज्ञानकर्मणोर्विरोधात् युगपदनुष्ठानं सम्भवतीति भिन्नपुरुषानुष्ठेयत्वं भगवता पूर्वमुक्तं स्यात् , ततोऽयं प्रश्न उपपन्नःज्यायसी चेत्इत्यादिःअविवेकतः प्रश्नकल्पनायामपि भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनं नोपपद्यते अज्ञाननिमित्तं भगवत्प्रतिवचनं कल्पनीयम्अस्माच्च भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनदर्शनात् ज्ञानकर्मणोः समुच्चयानुपपत्तिःतस्मात् केवलादे ज्ञानात् मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु

कस्मिन् पक्षे तर्हि प्रश्नस्योपपत्तिरित्याशङ्क्याह -

यदीति ।

भगवदुक्तेऽर्थे प्रष्टुर्विवेकाभावात् प्रश्नः स्यादित्याशङ्क्य पूर्वोक्तमेवाधिकविवक्षया स्मारयति -

अविवेकत इति ।

भगवतोऽपि प्रतिवचनम् अज्ञाननिमित्तं प्रश्नाननुरूपत्वादित्याशङ्क्य अधिकं दर्शयति -

नचेति ।

भगवतः सर्वज्ञत्वप्रसिद्धिविरोधाद् अज्ञानाधीनप्रतिवचनायोगादित्यर्थः ।

इतश्च समुच्चयः शास्त्रार्थो न भवतीत्याह -

अस्माच्चेति ।

कस्तर्हि शास्त्रार्थो विवक्षितः ?  तत्राह -

केवलादिति ।