इतश्च प्रश्नः समुच्चयानुसारी न भवतीत्याह –
किञ्चेति ।
भगवतो विविक्तार्थवादित्वादयुक्तं व्यामिश्रेणेत्यादिवचनमित्याशङ्क्याह –
यद्यपीति ।
यदि भगवद्वचनं सङ्कीर्णमिव ते भाति, तर्हि तेन त्वदीयबुद्धिव्यामोहनमेव तस्य विवक्षितमिति, किमिति मोहयसीवेत्युच्यते ? तत्राह –
ममेति ।
ज्ञानकर्मणि मिथो विरोधाद् युगपदेकपुरुषाननुष्ठेयतया भिन्नकर्तृके कथ्येते, तथा च तयोरन्यतरस्मिन्नेव त्वं नियुक्तः, न तु ते बुद्धिव्यामोहनमभिमतमिति, भगवतो मतमनुवदति –
त्वं त्विति ।
तदेकमित्यादिश्लोकार्धेनोत्तरमाह –
तत्रेति ।
उक्तं भागवतमतं सप्तम्या परामृश्यते । एकमित्युक्तप्रकारोक्तिः ।
एकमित्युक्तमेव स्फुटयति –
बुद्धिमिति ।
निश्चयप्रकारं प्रकटयति –
इदमिति ।
योग्यत्वं स्पष्टयति –
बुद्धीति ।
अस्य क्षत्रियस्य सतोऽन्तःकरणस्य देहशक्तेः समरसमारम्भावस्थायाश्चेदमेव ज्ञानं वा अनुगुणमिति निर्धार्य ब्रूहीत्यर्थः ।
निश्चित्यान्यतरोक्तौ तेन श्रोतुः श्रेयोऽवाप्तिं फलमाह -
येनेति ।