श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥
ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिर्ज्ञानं हे जनार्दनयदि बुद्धिकर्मणी समुच्चिते इष्टे तदा एकं श्रेयःसाधनमिति कर्मणो ज्यायसी बुद्धिः इति कर्मणः अतिरिक्तकरणं बुद्धेरनुपपन्नम् अर्जुनेन कृतं स्यात् ; हि तदेव तस्मात् फलतोऽतिरिक्तं स्यात्तथा , कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः, अश्रेयस्करं कर्म कुर्विति मां प्रतिपादयति, तत् किं नु कारणमिति भगवत उपालम्भमिव कुर्वन् तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशव इति यदाह, तच्च नोपपद्यतेअथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवता उक्तः अर्जुनेन अवधारितश्चेत् , तत्किं कर्मणि घोरे मां नियोजयसि’ (भ. गी. ३ । १) इत्यादि कथं युक्तं वचनम् ॥ १ ॥

प्राथमिकेन सम्बन्धग्रन्थेन समस्तशास्त्रार्थसङ्ग्राहकेण तद्विवरणात्मनोऽस्य सन्दर्भस्य नास्ति पौनरुक्त्यामिति मत्वा, प्रतिपदं व्याख्यातुं प्रश्नैकदेशं समुत्थापयति -

ज्यायसी चेदिति ।

वेदाश्चेत् प्रमाणमितिवत् चेदित्यस्य निश्चयार्थत्वं व्यावर्तयति -

यदीति ।

बुद्धिशब्दस्यान्तःकरणविषयत्वं व्यवच्छिनत्ति -

ज्ञानमिति ।

पूर्वार्धस्याक्षरयोजनां कृत्वा समुच्चयाभावे तात्पर्यमाह -

यदीति ।

इष्टे,भगवतेति शेषः । एकं ज्ञानं कर्म च समुच्चितमिति यावत् । ज्ञानकर्मणोरभीष्टे समुच्चये समुच्चितस्य श्रेयःसाधनस्यैकत्वात् कर्मणः सकाशाद् ज्ञानस्य पृथक्करणमयुक्तमित्यर्थः ।

एकमपि साधनं फलतोऽतिरिक्तं किं न स्यादित्याशङ्क्याह -

नहीति ।

नच केवलात् कर्मणो ज्ञानस्य केवलस्य फलतोऽतिरिक्तत्वं विवक्षित्वा पृथक्करणं, समुच्चयपक्षे प्रत्येकं श्रेयः साधनत्वानभ्युपगमादिति भावः ।

पूर्वार्धस्येवोत्तरार्धस्यापि समुच्चयपक्षे तुल्यानुपपत्तिरित्याह -

तथेति ।

‘दूरेण ह्यवरं कर्म ‘ (भ. गी. २-३०) इत्यत्र कर्मणः सकाशाद् बुद्धिः श्रेयस्करी भगवतोक्ता । कर्म च बुद्धेः सकाशादश्रेयस्करमुक्तम् । तथाऽपि तदेव कर्म ‘कर्मण्येवाधिकारस्ते मा फलेषु’ (भ. गी. २-४७) इति स्निग्धं भक्तं च मां प्रति कुर्विति भगवान् प्रतिपादयति, तत्र कारणानुपलम्भादयुक्तम् , अतिक्रूरे कर्मणि भगवतो मन्नियोजनमिति यदर्जुनो ब्रवीति, तच्च समुच्चयपक्षेऽनुपपन्नः स्यादित्यर्थः ।

यत्तु वृत्तिकारैुरुक्तं ‘श्रौतेन स्मार्तेन च कर्मणा समुच्चयो गृहस्थानां श्रेयःसाधनम् , इतरेषां स्मार्तेनैवेति भगवतोक्तमर्जुनेन च निर्धारितम्’ इति, तदेतदनुवदति –

अथेति ।

तत्रापि ’तत्किम्’इत्याद्युपालम्भवचनमनुपपन्नं, कर्ममात्रसमुच्चयवादिनो भगवतो नियोजनाभावादिति दूषयति –

तत्किमिति

॥१॥