श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ
ज्ञानयोगेन साङ्‍ख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥
लोके अस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां द्विविधा द्विप्रकारा निष्ठा स्थितिः अनुष्ठेयतात्पर्यं पुरा पूर्वं सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदयनिःश्रेयसप्राप्तिसाधनं वेदार्थसम्प्रदायमाविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे अनघ अपापतत्र का सा द्विविधा निष्ठा इत्याहतत्र ज्ञानयोगेन ज्ञानमेव योगः तेन साङ्ख्यानाम् आत्मानात्मविषयविवेकविज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येव अवस्थितानां निष्ठा प्रोक्ताकर्मयोगेन कर्मैव योगः कर्मयोगः तेन कर्मयोगेन योगिनां कर्मिणां निष्ठा प्रोक्ता इत्यर्थःयदि एकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानं कर्म समुच्चित्य अनुष्ठेयं भगवता इष्टम् उक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तम् , कथमिह अर्जुनाय उपसन्नाय प्रियाय विशिष्टभिन्नपुरुषकर्तृके एव ज्ञानकर्मनिष्ठे ब्रूयात् ? यदि पुनःअर्जुनः ज्ञानं कर्म द्वयं श्रुत्वा स्वयमेवानुष्ठास्यति अन्येषां तु भिन्नपुरुषानुष्ठेयतां वक्ष्यामि इतिमतं भगवतः कल्प्येत, तदा रागद्वेषवान् अप्रमाणभूतो भगवान् कल्पितः स्यात्तच्चायुक्तम्तस्मात् कयापि युक्त्या समुच्चयो ज्ञानकर्मणोः

येयं व्यवहारभूमिरुपलभ्यते, तत्र त्रैवर्णिकाः ज्ञानं कर्म वा शास्त्रीयमनुष्ठातुमधिक्रियन्ते। तेषां द्विधा स्थितिर्मया प्रोक्तेति पूर्वार्धं योजयति -

लोकेऽस्मिन्निति।

स्थितिमेव व्याकरोति -

अनुष्ठेयेति।

पूर्वं प्रवचनप्रसङ्गं प्रदर्शयन् प्रवक्तारं विशिनष्टि -

सर्गादाविति।

प्रवचनस्यायथार्थत्वशङ्कां वारयति -

सर्वज्ञेनेति।

अर्जुनस्य भगवदुपदेशयोग्यत्वं सूचयति -

अनघेति।

निर्धारणार्थे तत्रेति सप्तमी । ज्ञानं - परमार्थवस्तुविषयं तदेव योगशब्दितं, युज्यतेऽनेन ब्रह्मणेति व्युत्पत्तेस्तेन । निष्ठेत्यनुवर्तते।

उक्तज्ञानोपायमुपदिदिक्षुः साङ्ख्यशब्दार्थमाह -

आत्मेति।

तेषामेव कर्मनिष्ठत्वं व्यावर्तयति -

ब्रह्मचर्येति।

तेषां जपादिपारवश्येन श्रवणादिपराङ्मुखत्वं पराकरोति -

वेदान्तेति।

उक्तविशेषणवतां मुख्यसंन्यासित्वेन फलावस्थत्वं दर्शयति -

परमहंसेति।

कर्म - वर्णाश्रमविहितं धर्माख्यं तदेव युज्यते तेनाभ्युदयेनेति योगस्थेन निष्ठा कर्मिणां प्रोक्तेत्यनुषङ्गं दर्शयन्नाह -

कर्मैवेत्यादिना ।

एवं प्रतिवचनवाक्यस्थान्यक्षराणि व्याख्याय तस्यैव तात्पर्यार्थं कथयति -

यदि चेति।

इष्टस्यापि दुर्बोधत्वमाशङ्क्याह -

उक्तमिति।

ज्ञानस्यापि मूलविकलतया विभ्रमत्चमाशङ्क्याह -

वेदेष्विति।

तस्याशिष्यत्वबुद्ध्या अन्यथाकथनमित्याशङ्क्याह -

उपसन्नायेति।

तथापि तस्मिन् औदासीन्यादन्यथोक्तिरित्याशङ्क्याह -

प्रियायेति।

ब्रवीति च भिन्नपुरुषकर्तृकं निष्ठाद्वयं, तेन समुच्चयो भगवदभीष्टः शास्त्रार्थो न भवतीति शेषः।

नन्वर्जुनस्य प्रेक्षापूर्वकारित्वाद् ज्ञानकर्मश्रवणानन्तरमुभयनिर्देशानुउपपत्त्या समुच्चयानुष्ठानं सम्पत्स्यते, तद्व्यतिरिक्तानां तु ज्ञानकर्मणोर्भिन्नपुरुषानुष्ठेयत्वं श्रुत्वा प्रत्येकं तदनुष्ठानं भविष्यतीति भगवतो मतं कल्प्यते, तस्यार्जुनेऽनुरागातिरेकादितरेषु च तदभावादिति तत्राह -

यदि पुनरिति।

अप्रमाणभूतत्वम् - अनाप्तत्वम् ।न च भगवतो रागादिमत्त्वेनाप्तत्वं युक्तम्, ’समं सर्वेषु भूतेषु तिष्ठन्तम्’ इत्यादिविरोधादित्याह -

तच्चेति।

निष्ठाद्वयस्य भिन्नपुरुषानुष्ठेयत्वनिर्देशफलमुपसंहरति -

तस्मादिति।

॥३॥