श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ
ज्ञानयोगेन साङ्‍ख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥
यत् अर्जुनेन उक्तं कर्मणो ज्यायस्त्वं बुद्धेः, तच्च स्थितम् , अनिराकरणात्तस्याश्च ज्ञाननिष्ठायाः संन्यासिनामेवानुष्ठेयत्वम् , भिन्नपुरुषानुष्ठेयत्ववचनात्भगवतः एवमेव अनुमतमिति गम्यते ॥ ३ ॥

किमिति भगवता बुद्धेर्ज्यायस्त्वं ’ज्यायसी चेद्’ इत्यत्रोक्तमुपेक्षितमिति, तत्राह -

यदर्जुनेनेति।

किं च ज्ञाननिष्ठायां संन्यासिनामेवाधिकारो भगवतोऽभिप्रेतः, अन्यथा तदीयविभागवचनविरोधादिति विभागवचनसामर्थ्यसिद्धमर्थमाह -

तस्याश्चेति

॥३॥