श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥
हि यस्मात् क्षणमपि कालं जातु कदाचित् कश्चित् तिष्ठति अकर्मकृत् सन्कस्मात् ? कार्यते प्रवर्त्यते हि यस्मात् अवश एव अस्वतन्त्र एव कर्म सर्वः प्राणी प्रकृतिजैः प्रकृतितो जातैः सत्त्वरजस्तमोभिः गुणैःअज्ञ इति वाक्यशेषः, यतो वक्ष्यति गुणैर्यो विचाल्यते’ (भ. गी. १४ । २३) इतिसाङ्‍ख्यानां पृथक्करणात् अज्ञानामेव हि कर्मयोगः, ज्ञानिनाम्ज्ञानिनां तु गुणैरचाल्यमानानां स्वतश्चलनाभावात् कर्मयोगो नोपपद्यतेतथा व्याख्यातम् वेदाविनाशिनम्’ (भ. गी. २ । २१) इत्यत्र ॥ ५ ॥

कदाचित् - क्षणमात्रमपि, न कश्चिदकर्मकृत् तिष्ठतीत्यत्र हेतुत्वेनोत्तरार्धं व्याचष्टे -

कस्मादिति ।

सर्वशब्दाद् ज्ञानवानपि गुणैरवशः सन् कर्म कार्यते । ततश्च ज्ञानवतः संन्यासवचनमनवकाशं स्यादित्याशङ्क्याह -

अज्ञ इतीति ।

तमेव वाक्यशेषं वाक्यशेषावष्टम्भेन स्पष्टयति -

यत इति ।

आत्मज्ञानवतो गुणैरविचाल्यतया  गुणातीतत्ववचनादज्ञस्यैव सत्त्वादिगुणैरिच्छाभेदेन कार्यकरणसङ्घातं प्रवर्तयितुमशक्तस्य अजितकार्यकरणसङ्घातस्य क्रियासु प्रवर्तमानत्वमित्यर्थः ।

ज्ञानयोगेनेत्यादिना उक्तन्यायाच्च वाक्यशेषोपपत्तिरित्याह -

साङ्ख्यानामिति ।

ज्ञानिनां गुणप्रयुक्तचलनाभावेऽपि स्वाभाविकचलनबलात् कर्मयोगो भविष्यतीत्याशङ्क्याह -

ज्ञानिनां त्विति ।

प्रत्यगात्मनि स्वारसिकचलनासम्भवे प्रागुक्तं न्यायं स्मारयति -

तथा चेति

॥ ५ ॥