तैर्दत्तानित्यादिनोक्तं निगमयति -
भुञ्जत इति ।
देवयज्ञादीन् इति आदिशब्देन पितृयज्ञो मनुष्ययज्ञो भूतयज्ञो ब्रह्मयज्ञश्चेति चत्वारो यज्ञाः गृह्यन्ते । चुल्लीशब्देन पिठरधारणाद्यर्थक्रियां कुर्वन्तो विन्यासविशेषवन्तस्त्रयो ग्रावाणो विवक्ष्यन्ते । आदिशब्देन कण्डनी पेषणी मार्जनी उदकुम्भश्चेत्येते हिंसाहेतवो गृहीताः । तान्येतानि पञ्च, प्राणिनां सूनास्थानानि - हिंसाकारणानि, तत्प्रयुक्तैः सर्वैरपि बुद्ध्यबुद्धिपूर्वकदुरितैर्मुच्यन्त इति सम्बन्धः ।
प्रमादः -
विचारव्यतिरेकेणाबुद्धिपूर्वकमुपनतं पादपातादिकर्म, तेन प्राणिनां हिंसा सम्भाव्यते । आदिशब्देनाशुचिसंस्पर्शादिगृहीतं, तदुत्थैश्च पापैर्महायज्ञकारिणो मुच्यन्ते । उक्तं हि
‘कण्डनं पेषणं चु्ल्ली उदकुम्भश्च मार्जनी ।पञ्च सूना गृहस्थस्य पञ्चयज्ञात् प्रणश्यति ॥ ‘ (मनुः - ३ -६८) इति ।‘पञ्च सूना गृहस्थस्य चुल्ली पेषण्यवस्करः ।
कण्डनी चैव (चोद) कुम्मश्च वध्यन्ते यांस्तु वाहयन्'
इति च । अस्यायमर्थः - या यथोक्ताः पञ्चसङ्ख्याका गृहस्थस्य सूनास्ता यो वाहयन् - आपादयन् वर्तते, तेन प्राणिनो बुद्धिपूर्वकमबुद्धिपूर्वकं च वध्यन्ते ।
तत्प्रयुक्तं सर्वमपि पापं महायज्ञानुष्ठानात् प्रणश्यतीति महायज्ञानुष्ठानस्तुत्यर्थम् तदनुष्ठानविमुखान् निन्दति -
ये त्विति ।
आत्मम्भरित्वमेव स्फोरयति -
ये पचन्तीति ।
स्वदेहेन्द्रियपोषणार्थमेव पाकं कुर्वतां देवयज्ञादिपराङ्मुखानां पापभूयस्त्वं दर्शयति -
भुञ्जत इति ।
पाठक्रमस्त्वर्थक्रमादपबाधनीयः ॥ १३ ॥