श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इतश्च अधिकृतेन कर्म कर्तव्यम् जगच्चक्रप्रवृत्तिहेतुर्हि कर्मकथमिति उच्यते
इतश्च अधिकृतेन कर्म कर्तव्यम् जगच्चक्रप्रवृत्तिहेतुर्हि कर्मकथमिति उच्यते

देवयज्ञादिकं कर्माधिकृतेन कर्तव्यमित्यत्र हेत्वन्तरमितःशब्दोपात्तमेव दर्शयति -

जगदिति ।

ननु भुक्तमन्नं रेतोलोहितपरिणतिक्रमेण प्रजारूपेण जायते, तच्चान्नं वृष्टिसम्भवं प्रत्यक्षदृष्टं, तत् कथं कर्मणो जगच्चक्रप्रवर्तकत्वमिति शङ्कते -

कथमिति ।

पारम्पर्येण कर्मणस्तद्धेतुत्वं साधयति -

उच्यत इति ।