श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥
अन्नात् भुक्तात् लोहितरेतःपरिणतात् प्रत्यक्षं भवन्ति जायन्ते भूतानिपर्जन्यात् वृष्टेः अन्नस्य सम्भवः अन्नसम्भवःयज्ञात् भवति पर्जन्यः, अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठतेआदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः’ (मनु. ३ । ७६) इति स्मृतेःयज्ञः अपूर्वम् यज्ञः कर्मसमुद्भवः ऋत्विग्यजमानयोश्च व्यापारः कर्म, तत् समुद्भवः यस्य यज्ञस्य अपूर्वस्य यज्ञः कर्मसमुद्भवः ॥ १४ ॥

उक्तेऽर्थे स्मृत्यन्तरं संवादयति -

अग्नाविति ।

तत्र हि देवताभिध्यानपूर्वकं तदुद्देशेन प्रहिताहुतिरपूर्वतां गता रश्मिद्वारेणादित्यमारुह्य, वृष्ट्यात्मना पृथिवीं प्राप्य, व्रिहियवाद्यन्नभावमापद्य, संस्कृतोपभुक्ता शुक्रशोणितरूपेण परिणता प्रजाभावं प्राप्नोतीत्यर्थः ।

‘यज्ञः कर्मसमुद्भवः’ (भ. गी. ३-१४) इत्ययुक्तं, स्वस्यैव स्वोद्भवे कारणत्वायोगादित्याशङ्क्याह -

ऋत्विगिति ।

द्रव्यदेवतयोः सङ्ग्राहकश्चकारः ॥ १४ ॥