श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं स्थिते किमेवं प्रवर्तितं चक्रं सर्वेणानुवर्तनीयम् , आहोस्वित् पूर्वोक्तकर्मयोगानुष्ठानोपायप्राप्याम् अनात्मविदः ज्ञानयोगेनैव निष्ठाम् आत्मविद्भिः साङ्ख्यैः अनुष्ठेयामप्राप्तेनैव, इत्येवमर्थम् अर्जुनस्य प्रश्नमाशङ्क्य स्वयमेव वा शास्त्रार्थस्य विवेकप्रतिपत्त्यर्थम् एतं वै तमात्मानं विदित्वा निवृत्तमिथ्याज्ञानाः सन्तः ब्राह्मणाः मिथ्याज्ञानवद्भिः अवश्यं कर्तव्येभ्यः पुत्रैषणादिभ्यो व्युत्थायाथ भिक्षाचर्यं शरीरस्थितिमात्रप्रयुक्तं चरन्ति तेषामात्मज्ञाननिष्ठाव्यतिरेकेण अन्यत् कार्यमस्ति’ (बृ. उ. ३ । ५ । १) इत्येवं श्रुत्यर्थमिह गीताशास्त्रे प्रतिपिपादयिषितमाविष्कुर्वन् आह भगवान्

वृत्तमर्थमेवं विभज्यानूद्य अनन्तरश्लोकमाशङ्कोत्तरत्वेनावतारयति -

एवमिति ।

अर्जुनस्य प्रश्नमित्येवमर्थमाशङ्क्याह भगवानिति सम्बन्धः ।

नन्वेषा आशङ्का नावकाशमासादयति, अनात्मज्ञेन कर्तव्यं कर्मेति बहुशो विशेषितत्वादित्याशङ्क्याह -

स्वयमेवेति ।

किमर्थं श्रुत्यर्थं स्वयमेव भगवानत्र प्रतिपादयतीत्याशङ्क्याह -

शास्त्रार्थस्येति ।

गीताशास्त्रस्य ससंन्यासं ज्ञानमेव मुक्तिसाधनमर्थः, नार्थान्तरमिति विवेकार्थमिह श्रुत्यर्थं कीर्तयतीत्यर्थः ।

तमेव श्रुत्यर्थं सङ्क्षिपति -

एतमिति ।

सिद्धं चेदात्मवेदनम् , अनर्थकं तर्हि व्युत्थानादि, इत्याशङ्क्यापातिकविज्ञानफलमाह -

निवृत्तेति ।

ब्राह्मणग्रहणं तेषामेव व्युत्थाने मुख्यमधिकारित्वमिति ज्ञापनार्थम् ।

क्लेशात्मकत्वात् एषणानां ताभ्यो व्युत्थानं सर्वेषां स्वाभाविकत्वात् अविधित्सितमित्याशङ्क्याह -

मिथ्येति ।

‘भिक्षाचर्यं चरन्ति’ (बृ. उ. ३-५-१) इति वचनं व्युत्थानविरुद्धमित्याशङ्क्याह -

शरीरेति ।

तर्हि तद्वदेव तेषामग्निहोत्रादि अपि कर्तव्यमापद्येत, इत्याशङ्क्य, व्युत्थायिनामाश्रमधर्मवदग्निहोत्रादेरनुष्ठापकाभावाद् मैवमित्याह -

न तेषामिति ।

यथोक्तं श्रुत्यर्थमस्मिन् गीताशास्त्रे पौर्वापर्येण पर्यालोच्यमाने प्रतिपादयितुमिष्टं प्रकटीकुर्वन् कर्तव्यमेव कर्म जीवतेति नियमे ‘ज्ञानयोगेन साङ्ख्यानाम्’ (भ. गी. ३-३) इति कथमुक्तमिति परिचोद्यपरिहारमुदर्शयतीत्याह -

इत्येवमिति ।