श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
उत्सीदेयुरिमे लोका कुर्यां कर्म चेदहम्
सङ्करस्य कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥
उत्सीदेयुः विनश्येयुः इमे सर्वे लोकाः लोकस्थितिनिमित्तस्य कर्मणः अभावात् कुर्यां कर्म चेत् अहम्किञ्च, सङ्करस्य कर्ता स्याम्तेन कारणेन उपहन्याम् इमाः प्रजाःप्रजानामनुग्रहाय प्रवृत्तः उपहतिम् उपहननं कुर्याम् इत्यर्थःमम ईश्वरस्य अननुरूपमापद्येत ॥ २४ ॥

श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणामुचितमेवेत्याशङ्क्य, दूषयति -

तथाचेत्यादिना ।

ईश्वरस्य कर्मण्यप्रवृत्तौ तदनुवर्तिनामपि कर्मानुपपत्तेरिति हेतुमाह -

लोकस्थितीति ।

इतश्चेश्वरेण कर्म कर्तव्यमित्याह -

किञ्चेति ।

यदि कर्म न कुर्यामिति शेषः ।

सङ्करकरणस्य कार्यं कथयति -

तेनेति ।

प्रजोपहतिः परिप्राप्यते चेत् , किं तया तव स्यादिति, तत्राह -

प्रजानामिति

॥ २४ ॥