त्वामनाचरन्तमनुवर्ततां सर्वेषां को दोषः स्यात् ? इत्यपेक्षायामीश्वरस्य कृतार्थतया कर्मानुष्ठानाभावे तदनुवर्तिनामपि तदभावादेव स्थितिहेत्वभावात् , पृथिव्यादिभूतानां विनाशप्रसङ्गाद् वर्णाश्रमधर्मव्यवस्थानुपपत्तेश्चाधिकृतानां प्राणभृतां पापोपहतत्वप्रसङ्गात् परानुग्रहार्थं प्रवृ्त्तिरीश्वरस्येत्युक्तम् । सम्प्रति लोकसङ्ग्रहाय कर्म कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवे प्राप्ते, प्रत्याह -
यदि पुनरिति ।
कृतार्थबुद्धित्वे हेतुमाह -
आत्मविदिति ।
यथावदात्मानमवगच्छन् कर्तृत्वाद्यभिमानाभावात् कृतार्थो भवत्येवेत्यर्थः ।
अर्जुनादन्यत्रापि ज्ञानवति कृतार्थबुद्धित्वं कर्तव्यत्वाद्यभिमानहीने तुल्यमित्याह -
अन्यो वेति ।
तस्य तर्हि कर्मानुष्ठानमफलत्वात् अनवकाशमित्याशङ्क्याह -
तस्यापीति ।
>कर्तव्य इति आत्मविदाऽपि परानुग्रहाय कर्तव्यमेव कर्मेति, आहेति शेषः ।