श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ २५ ॥
सक्ताः कर्मणिअस्य कर्मणः फलं मम भविष्यतिइति केचित् अविद्वांसः यथा कुर्वन्ति भारत, कुर्यात् विद्वान् आत्मवित् तथा असक्तः सन्तद्वत् किमर्थं करोति ? तत् शृणुचिकीर्षुः कर्तुमिच्छुः लोकसङ्ग्रहम् ॥ २५ ॥

दृष्टान्तदार्ष्टान्तिकरूपं श्लोकं व्याकरोति -

सक्ता इत्यादिना ।

असक्तः सन् कर्तृत्वाभिमानं फलभिसन्धिं वा कुर्वन्निति यावत् ॥ २५ ॥