श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥
बुद्धेर्भेदः बुद्धिभेदःमया इदं कर्तव्यं भोक्तव्यं चास्य कर्मणः फलम्इति निश्चयरूपाया बुद्धेः भेदनं चालनं बुद्धिभेदः तं जनयेत् उत्पादयेत् अज्ञानाम् अविवेकिनां कर्मसङ्गिनां कर्मणि आसक्तानां आसङ्गवताम्किं नु कुर्यात् ? जोषयेत् कारयेत् सर्वकर्माणि विद्वान् स्वयं तदेव अविदुषां कर्म युक्तः अभियुक्तः समाचरन् ॥ २६ ॥

पूर्वार्धमेवं व्याख्यायोत्तरार्धं प्रश्नपूर्वकमवतार्य व्याचष्टे -

किं नु कुर्यादिति ।

सर्वकर्माणि कारयेत् , तेषु प्रीतिं कुर्वन्निति शेषः ।

कथं कारयेदित्याकाङ्क्षायामाह -

तदेवेति

॥ २६ ॥