श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ २९ ॥
प्रकृतेः गुणैः सम्यक् मूढाः संमोहिताः सन्तः सज्जन्ते गुणानां कर्मसु गुणकर्मसुवयं कर्म कुर्मः फलायइति | तान् कर्मसङ्गिनः अकृत्स्नविदः कर्मफलमात्रदर्शिनः मन्दान् मन्दप्रज्ञान् कृत्स्नवित् आत्मवित् स्वयं विचालयेत् बुद्धिभेदकरणमेव चालनं तत् कुर्यात् इत्यर्थः ॥ २९ ॥

गुणानां - तेषामेव देहादीनां कर्मसु -व्यापारेषु, सज्जन्ते - सक्तिं दृढतरामात्मीयबुद्धिं कुर्वन्तीत्याह -

प्रकृतेरित्यादिना ।

तेषामनात्मविदां स्वयमात्मविद् बुद्धिभेदं नापादयेदित्याह -

तानित्यादिना

॥ २९ ॥