श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कथं पुनः कर्मण्यधिकृतेन अज्ञेन मुमुक्षुणा कर्म कर्तव्यमिति, उच्यते
कथं पुनः कर्मण्यधिकृतेन अज्ञेन मुमुक्षुणा कर्म कर्तव्यमिति, उच्यते

यद्यपि कर्मण्यज्ञोऽधिक्रियते, तथाऽपि मोक्षमाणेन तेन कर्म त्यक्तव्यं, मोक्षस्य कर्मासाध्यत्वात् , न तु तेन कर्म कर्तुं शक्या, कर्मणः स्वापेक्षितविरोधित्वादिति शङ्कते -

कथमिति ।

श्लोकेनोत्तरमाह -

उच्यत इति ।