श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥
मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्य अध्यात्मचेतसा विवेकबुद्ध्याअहं कर्ता ईश्वराय भृत्यवत् करोमिइत्यनया बुद्ध्याकिञ्च, निराशीः त्यक्ताशीः निर्ममः ममभावश्च निर्गतः यस्य तव त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरः विगतसन्तापः विगतशोकः सन्नित्यर्थः ॥ ३० ॥

यथोक्ते परस्मिन्नात्मनि सर्वकर्मणां समर्पणे कारणमाह -

अध्यात्मेति ।

विवेकबुद्धिमेव व्याकरोति -

अहमिति ।

दर्शितरीत्या कर्मसु प्रवृत्तस्य कर्तव्यान्तरमाह -

किञ्चेति ।

त्यक्ताशीः फलप्रार्थनाहीनः सन्नित्यर्थः । निर्ममोभूत्वा , पुत्रभ्रात्रादिष्विति शेषः ।

ननु युद्धे नियोगो नोपपद्यते, पुत्रभ्रात्रादिहिंसात्मनस्तस्य सन्तापहेतोर्नियोगविषयत्वायोगादिति, तत्राह -

विगतेति

॥ ३० ॥